|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.24. अध्यायः 024
Mahabharata - Bhishma Parva - Chapter Topics
सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-24-0x(4005)(39449)
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय।
उदग्रमनसः के वा के वा दीना विचेतसः ॥ 6-24-1(39450)
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।
मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ॥ 6-24-2(39451)
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः ।
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ॥ 6-24-3(39452)
सञ्जय उवाच। 6-24-4x(4006)
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा।
स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ॥ 6-24-4(39453)
संहतानामनीकानां व्यूढानां भरतर्षभ ।
संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ॥ 6-24-5(39454)
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः।
शूराणां रणशूराणां गर्जतामितरेतरम् ॥ 6-24-6(39455)
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्।
अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ।
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥ ॥ 6-24-7(39456)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्विशोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|